उपदेशसारम्

कर्तुराज्ञया प्राप्यते फलम् ।
कर्म किं परं कर्म तज्जडम् ॥ १॥
कृतिमहोदधौ पतनकारणम् ।
फलमशाश्वतं गतिनिरोधकम् ॥ २॥
ईश्वरार्पितं नेच्छया कृतम् |
चित्तशोधकं मुक्तिसाधकम् ॥ ३॥
कायवाङ्मनः कार्यमुत्तमम् ।
पूजनं जपश्चिन्तनं क्रमात् ॥ ४॥
जगत ईशधी युक्तसेवनम् ।
अष्टमूर्तिभृद्देवपूजनम् ॥ ५॥
उत्तमस्तवादुच्चमन्दतः ।
चित्तजं जपध्यानमुत्तमम् ॥ ६॥
आज्यधारया स्रोतसा समम् ।
सरलचिन्तनं विरलतः परम् ॥ ७॥
भेदभावनात् सोऽहमित्यसौ ।
भावनाऽभिदा पावनी मता ॥ ८॥
भावशून्यसद्भावसुस्थितिः ।
भावनाबलाद्भक्तिरुत्तमा ॥ ९॥
हृत्स्थले मनः स्वस्थता क्रिया ।
भक्तियोगबोधाश्च निश्चितम् ॥ १०॥
वायुरोधनाल्लीयते मनः ।
जालपक्षिवद्रोधसाधनम् ॥ ११॥
चित्तवायवश्चित्क्रियायुताः ।
शाखयोर्द्वयी शक्तिमूलका ॥ १२॥
लयविनाशने उभयरोधने ।
लयगतं पुनर्भवति नो मृतम् ॥ १३॥
प्राणबन्धनाल्लीनमानसम् ।
एकचिन्तनान्नाशमेत्यदः ॥ १४॥
नष्टमानसोत्कृष्टयोगिनः ।
कृत्यमस्ति किं स्वस्थितिं यतः ॥ १५॥
दृश्यवारितं चित्तमात्मनः ।
चित्त्वदर्शनं तत्त्वदर्शनम् ॥ १६॥
मानसं तु किं मार्गणे कृते ।
नैव मानसं मार्ग आर्जवात् ॥ १७॥
वृत्तयस्त्वहं वृत्तिमाश्रिताः ।
वृत्तयो मनो विद्ध्यहं मनः ॥ १८॥
अहमयं कुतो भवति चिन्वतः ।
अयि पतत्यहं निजविचारणम् ॥ १९॥
अहमि नाशभाज्यहमहंतया ।
स्फुरति हृत्स्वयं परमपूर्णसत् ॥ २०॥
इदमहं पदाऽभिख्यमन्वहम्
अहमिलीनकेऽप्यलयसत्तया ॥ २१॥
विग्रहेन्द्रियप्राणधीतमः
नाहमेकसत्तज्जडं ह्यसत् ॥ २२॥
सत्त्वभासिका चित्क्ववेतरा
सत्तया हि चिच्चित्तया ह्यहम् ॥ २३॥
ईशजीवयोर्वेषधीभिदा ।
सत्स्वभावतो वस्तु केवलम् ॥ २४॥
वेषहानतः स्वात्मदर्शनम् ।
ईशदर्शनं स्वात्मरूपतः ॥ २५॥
आत्मसंस्थितिः स्वात्मदर्शनम् ।
आत्मनिर्द्वयादात्मनिष्ठता ॥ २६॥
ज्ञानवर्जिताऽज्ञानहीनचित् ।
ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ २७॥
किं स्वरूपमित्यात्मदर्शने ।
अव्ययाऽभवाऽऽपूर्णचित्सुखम् ॥ २८॥
बन्धमुक्त्यतीतं परं सुखम् ।
विन्दतीह जीवस्तु दैविकः ॥ २९॥
अहमपेतकं निजविभानकम् ।
महदिदंतपो रमनवागियम् ॥ ३०॥